प्रशासनिकसेवा-परीक्षायाः संस्कृताध्ययनकेन्द्रम्—
इदं शिक्षण-केन्द्रम् एतादृशानां छात्राणां कृते कल्पितं ये संस्कृतविषयम् अधिकृत्य भारतीय-प्रशासनिक-सेवापरीक्षायाम् सम्मिलिताः भवितुम् इच्छन्ति।
कनिष्ठ-अनुसन्धान-अध्येतावृत्तिपरीक्षार्थिनां कृते (जे.आर.एफ.) अध्ययनकेन्द्रम्--
संस्कृतविषयं स्वीकृत्य ये छात्राः नेट/जे.आर.एफ. इति परीक्षायां सम्मिलिताः भवितुम् इच्छन्ति, तेषां मार्गदर्शनाय इदं केन्द्रं सञ्चालितं भवति।
ज्योतिषः, कर्मकाण्डस्य, आयुर्वेदस्य, योगस्य संस्कृतस्य च अध्ययनकेन्द्राणि---
ये जनाः उपर्युक्तविषयाणां संस्कृतस्य च परिचयात्मकम् अध्ययनं कर्त्तुम् इच्छन्ति, तेषां कृते इदम् अध्ययनकेन्द्रं सञ्चालितं भवति ।