दिल्ली-संस्कृत-अकादमी, दिल्ली सर्वकारस्य स्वायत्तशासिसंस्था वर्त्तते। अकादम्या संस्कृत-प्रचारस्य हेतोः प्रतिवर्षं निम्नलिखितानि कार्याणि क्रियन्ते, यानि अकादम्याः कार्य-समित्या यथाकालं निर्धारितायाः नीत्याः अनुसारं सम्पन्नानि विधीयन्ते। इमानि कार्याणि प्रतिवर्षं अकादम्यै प्रदत्त-अनुदानराश्यनुसारं भवन्ति।
सम्मानानि पुरस्काराश्च।
राजधान्यां संस्कृतभाषायाः संस्कृतसाहित्यस्य च प्रचाराय-प्रसाराय च संस्कृत-साहित्यकारेभ्यः, लेखकेभ्यः कविभ्यश्च सम्मानानि पुरस्काराश्च प्रदीयन्ते। देहल्याः साहित्यकर्तृणां कवीनां लेखकानां च नामसु अकादम्याः कार्यकारिणी समितिः तेषां समग्र-योगदानस्य मूल्याङ्कनं कृत्वा एव तेभ्यः सम्मान-प्रदानाय विचारयति ।
विद्यालयीया/महाविद्यालयीया संस्कृत-सेवा-सम्मान-योजना
अकादमी एतस्यां योजनायां दिल्लीस्थानां विद्यालय/महाविद्यालयानां संस्कृतविद्यालय-महाविद्यालयानां संस्कृतशिक्षकेभ्यः शिक्षिकाभ्यश्च बोर्ड/विश्वविद्यालयीय-परीक्षासु शतप्रतिशतं परिणामम् आधारीकृत्य सम्मानं प्रयच्छति। एतदतिरिच्य उत्कृष्ट-परीक्षा-परिणामस्य छात्र-संख्यायाश्च आधारेण विद्यालयान्/महाविद्यालयान् संस्कृत-विद्यालयान्/महाविद्यालयांश्च सम्मानयति पुरस्कारस्वरूपेण प्रशस्तिपत्राणि, संस्कृतस्य-साहित्यम्, अङ्गवस्त्रम्, उत्तरीयादिकञ्च प्रदीयते।
संस्कृत-समाराधक-सम्मान-योजनाः
अस्यां योजनायां देहलीस्थ-विद्यालयानां संस्कृत-संगीत-शिक्षकशिक्षिकाभ्यः शिक्षानिदेशालयस्य द्वादशमण्डलेषु आयोजित-प्रतियोगितासु छात्रान् सज्जीकरणार्थं सम्मानः दीयते। एतदर्थम् अकादमीद्वारा प्रत्येकं विद्यालयः पत्रैः सूच्यते।
संस्कृतशिक्षक-पुरस्कारः
अकादमीद्वारा निश्चितनियमानुसारं उत्कृष्ट-शिक्षकाणां सम्मानं प्रतिवर्षं क्रियते।
संगोष्ठ्यः, सम्मेलनानि/कविसम्मेलनानि च
भाषायाः संस्कृतेश्च प्रचारं, प्रसारं, विचाराणां अनुभवानां च आदानं प्रदानं संवर्धयितुं दिल्ली-संस्कृत-अकादमी विभिन्नेषु क्षेत्रेषु साहित्यिक-संगोष्ठीनाम् आयोजनं करोति। अन्यच्च अकादमीद्वारा नियमितरूपेण प्रतियोगिताः, नाट्यसमारोहाः, कार्यशालाः, काव्यगोष्ठ्यश्च आयोज्यन्ते। एषु कार्यक्रमेषु उदीयमानानां प्रतिष्ठितानां लेखकानां सम्मानो भवति। अकादमी प्रत्येकं वर्षे विभिन्नेषु अवसरेषु प्राचीन-साहित्यकाराणां महापुरुषाणां च जन्मदिवसावसरे कविगोष्ठीनाम् आयोजनं करोति।
गणतन्त्रदिवसम् उपलक्ष्य राष्ट्रिय-संस्कृत-कविसम्मेलनम्---
अकादम्या प्रतिवर्षं गणतन्त्रदिवसम् उपलक्ष्य कविसम्मेलनं समायोज्यते। अस्मिन् सम्मेलने प्रसिद्धाः संस्कृतकवयः स्वीयाः राष्ट्रभक्तिसंयुताः रचनाः प्रस्तुवन्ति।
त्रिदिवसीयम् अखिलभारतीयनवोदितसंस्कृतविद्वत्सम्मेलनम्---
अकादमी प्रतिवर्षं नवोदित-संस्कृत-विदुषां/विदुषीनां च कृते संस्कृतसम्मेलनं समायोजयति। यस्मिन् सम्पूर्ण-भारतवर्षस्य शोधच्छात्राः विशिष्टरूपेण समायान्ति।
संस्कृत प्रतिभापुरस्कारः—
अस्यां योजनायां दशम्यां, द्वादश्यां, स्नातके (बी.ए.), स्नातकोत्तरे (एम.ए.) प्रथमायां, पूर्वमध्यमायां, शास्त्रिकक्षायां आचार्यश्रेण्यां च संस्कृतविषये उत्कृष्ट-अंकान् लभ्यमानानां छात्राणां संस्कृत-प्रतिभा-पुरस्कारेण सम्मानो भवति।
संस्कृत-प्रतियोगिता-पुरस्कारः—
अकादमीद्वारा विभिन्नेषु मण्डलेषु आयोजितानां षट्दिवसात्मकानां प्रतियोगितानां विजेतृ-प्रतिभागिभ्यः अकादमी पुरस्कार-प्रमाणपत्रादीनि प्रयच्छति।
विद्यालयस्तरस्य मण्डलीयाः प्रतियोगिताः
अकादमी प्रतिवर्षं दिल्ली-शिक्षा-निदेशालयान्तर्गतेषु सर्वेषु द्वादशमण्डलेषु छात्राणां संस्कृतभाषां प्रति रुच्युत्पादनाय विभिन्नानां प्रतियोगितानाम् आयोजनं करोति। ताश्च प्रतियोगिताः निम्नलिखिताः सन्ति।
- श्लोक-संगीत-प्रतियोगिता (समूहात्मिका बालिकाभ्य एव)
- संस्कृतमाश्रित्य काव्यालि-प्रतियोगिता (समूह एव)
- श्लोकोच्चारण-प्रतियोगिता (समूहात्मिका बालकेभ्य एव)
- संस्कृतवाद-विवाद-प्रतियोगिता
- संस्कृतभाषण-प्रतियोगिता
- एकल-श्लोक-सङ्गीत-प्रतियोगिता
संस्कृतविद्यालयीयाः प्रतियोगिताः--
अकादम्या संस्कृतभाषा-संवर्द्धनाय संस्कृत-मूल-विषयेषु नानाप्रकाराः प्रतियोगिताः समायोज्यन्ते यासु संस्कृत-विद्यालये-अधीयानानाम् अध्येतृणां छात्र-छात्राणाम् आकरैरेव भागग्रहणं क्रियते। प्रश्नमञ्च-प्रतियोगिता, एकल-श्लोक-संगीत-प्रतियोगिता (मध्यमा-श्रेण्याः स्नातक-स्नातकोत्तरच्छात्राश्च), व्याकरण-सूत्रान्त्याक्षरी, संस्कृत- भाषणम्, श्लोकान्त्याक्षरी, संस्कृतवाद-विवादः, वेदमन्त्रान्त्याक्षरी, अक्षर-श्लोकादिकस्य च प्रतियोगिताः समायोज्यन्ते।
सामान्यमहाविद्यालयस्तरीयाः प्रतियोगिताः--
महाविद्यालयीय-स्तरे संस्कृतभाषायाः विकासाय, प्रचाराय प्रसाराय च अनेकाः प्रतियोगिताः आयोज्यन्ते अकादम्या। यासु श्लोक-संगीत-प्रतियोगिता (समूहात्मिका) काव्यालि-प्रतियोगिता (समूहात्मिका) एकल-श्लोक-संगीत-प्रतियोगिता, संस्कृत-भाषण-प्रतियोगिता, संस्कृत-वादविवाद-प्रतियोगिता, प्रश्नमञ्च-प्रतियोगिता च समायोज्यन्ते।