दिल्ली-संस्कृत-अकादम्याः संस्थापनायाः प्रमुखोद्देश्यं संस्कृतभाषायाः संस्कृत-साहित्यस्य च विकास-सम्बद्धानां कार्यक्रमाणां कार्यरूपे परिणतिः।
अस्मिन् विशेषतः दिल्लीस्थानां प्राचीनानां वर्त्तमानानाञ्च उत्कृष्ट-साहित्यानां संकलनम्, परिरक्षणं साहित्यसृजनाय प्रोत्साहनकार्यं च सम्मिलितम् अस्ति।
अकादम्याः उद्देश्यानि निम्नलिखितानि सन्ति--
- संस्कृतभाषायाः साहित्यस्य च उत्थान-प्रचार-प्रसारहेतवे वर्तमानाय भविष्यार्थं च अकादमी अनुदानं प्राप्स्यति। संस्कृतपुस्तकानां प्रकाशनम् तथा च अप्रकाशितानां मूलकृतीनां प्रकाशनम्, सांस्कृतिकः साहित्यिकश्च सन्दर्भकोशः, ज्ञानकोषः इत्यादिकोशानां प्रारम्भिकी शब्दावली, संस्कृतसम्बद्धानां नैकग्रन्थानां विभिन्नभाषासु अनुवादकार्यं च। उक्तकार्यक्रमाणां प्रोत्साहनहेतोः अकादमी स्वसामर्थ्यानुरूपं व्यवस्थां करिष्यति।
- अकादमी राष्ट्रियस्तरे क्षेत्रीयस्तरे च संस्कृतसम्मेलनम्, संगोष्ठीं, परिसंवादं, नृत्यं, नाटकं, काव्यगोष्ठीं, संस्कृतसम्बद्धप्रदर्शनीं, प्रतियोगिताः, संस्कृतेन सम्बद्धसमस्यानां विषये वादविवादान्, गोष्ठीः, विभिन्नभाषाणां तुलनात्मकमध्ययनम् तथा च संस्कृत-संबद्ध-ऐतिहासिक-सांस्कृतिक-शैक्षणिकयात्राः इत्यादीनां विविध-संस्कृत-कार्यक्रमानां व्यवस्थां करिष्यति।
अस्मिन् सम्बन्धे भारतसर्वकारेण यथासमयं संस्कृतभाषायाः प्रचाराय प्रसाराय च दत्तानाम् आदेशानां कार्यन्वयनाय व्यवस्था कल्पिष्यते।
- साहित्यकारेभ्यः, तेषामद्भुतसाहित्यिकरचनाभ्यः, संस्कृतक्षेत्रे प्रशंसनीयकार्येभ्यश्च मान्यताप्रदानम्, अथ च पुरस्करणम् इत्यादि-आर्थिक-सहयोगं प्रदातुं व्यवस्थां करिष्यति।
- संस्कृतविद्वद्भ्यः, उच्चशिक्षायै शोधकार्याय च प्रोत्साहनं प्रदास्यति।
- दिल्लीस्थ-विभिन्नक्षेत्रेषु संस्कृतकेन्द्राणां स्थापना, तेभ्यः च पाठ्यपुस्तक- निर्माणम्, केन्द्रेषु अध्ययनरतेभ्यः छात्रेभ्यः प्रोत्साहनप्रदानं च।
- संस्कृतपाठशालानाम् उत्थानाय प्रोत्साहनं, आवश्यकतायां सत्यां तेभ्यः पाठ्यक्रम-पाठ्यपुस्तक-परीक्षादीनां व्यवस्थाकल्पनाय प्रोत्साहनं प्रदास्यति।
- दिल्लीस्थानां वयोवृद्धानां उच्चकोटिकानां साहित्यकाराणां लब्धप्रतिष्ठानां च विदुषां सम्मानकरणम्।
- संस्कृतस्य सर्वश्रेष्ठ-कृतीनां, बालसाहित्यानां च प्रतिवर्षं सम्माननम्।
- येषां कार्यं संस्कृतभाषायाः विकासाय संस्कृत-साहित्यस्य च संवर्द्धनाय महत्त्वपूर्णं भवेत् संस्कृतस्य प्रचारे प्रसारे च कार्यं कुर्वन्तीभ्यः स्वैच्छिक-संस्थाभ्यः-कार्यक्रमेभ्यः, लघुसमाचारपत्र-पत्रिकाभ्यः विज्ञापनमाध्यमेन अनुदान-प्रदानम्।